वांछित मन्त्र चुनें

ये ता॑तृ॒षुर्दे॑व॒त्रा जेह॑माना होत्रा॒विद॒: स्तोम॑तष्टासो अ॒र्कैः । आग्ने॑ याहि सुवि॒दत्रे॑भिर॒र्वाङ्स॒त्यैः क॒व्यैः पि॒तृभि॑र्घर्म॒सद्भि॑: ॥

अंग्रेज़ी लिप्यंतरण

ye tātṛṣur devatrā jehamānā hotrāvidaḥ stomataṣṭāso arkaiḥ | āgne yāhi suvidatrebhir arvāṅ satyaiḥ kavyaiḥ pitṛbhir gharmasadbhiḥ ||

पद पाठ

ये । त॒तृ॒षुः । दे॒व॒त्रा । जेह॑मानाः । हो॒त्रा॒ऽविदः॑ । स्तोम॑ऽतष्टासः । अ॒र्कैः । आ । अ॒ग्ने॒ । या॒हि॒ । सु॒ऽवि॒दत्रे॑भिः । अ॒र्वाङ् । स॒त्यैः । क॒व्यैः । पि॒तृऽभिः॑ । घ॒र्म॒सत्ऽभिः॑ ॥ १०.१५.९

ऋग्वेद » मण्डल:10» सूक्त:15» मन्त्र:9 | अष्टक:7» अध्याय:6» वर्ग:18» मन्त्र:4 | मण्डल:10» अनुवाक:1» मन्त्र:9


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (ये देवत्रा जेहमानाः-होत्राविदः-स्तोमतष्टासः-अर्कैः-तातृषुः) जो सूर्य की किरणें देवत्व को प्राप्त होती हुई तीक्ष्णता के कारण प्राण्यङ्गों में घुसती हुई प्राणों को स्वेदन से संशोधित करती हुई जलों के आकर्षण के लिये तृषित हुई भूमि पर गिरती हैं (सुविदत्रेभिः-सत्यैः कव्यैः घर्मसद्भिः-पितृभिः-अग्ने-आयाहि) उचित विज्ञानलाभ जिनसे हो सकता हो, ऐसी उन मध्याह्नगत किरणों के साथ यह अग्नि वृष्टिनिमित्त यज्ञ में प्राप्त होती है ॥९॥
भावार्थभाषाः - मध्याह्नकाल में सूर्य की किरणें प्राणियों के अङ्ग-अङ्ग में घुस जाती हैं और प्राणों का शोधन करती हैं। इनका विज्ञान के द्वारा उपयोग होना चाहिये ॥९॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (ये देवत्रा जेहमानाः होत्राविदः स्तोमतष्टासः-अर्कैः-तातृषुः) ये सूर्यरश्मयो देवान् गच्छन्तो देवत्वं द्युस्थानत्वं प्राप्नुवन्तः, “देवो दानाद्वा दीपनाद्वा द्योतनाद्वा द्युस्थानो भवतीति वा” [निरु०७।१५] होत्राविदः-अङ्गचेतकाः “होत्रा अङ्गानि” [गोपथ ३।६।६] स्तोमतष्टासः स्तोमा प्राणास्तष्टाः शोधिता यैस्ते “प्राणा वै स्तोमाः [श०८।४।१।४] अद्भिस्तृष्यन्ति जलमाकर्षितुं पृथिवीं पतन्ति “आपो वा अर्कः” [श०१०।४।१।२३] हेतौ तृतीया (सुविदत्रेभिः-सत्यैः कव्यैः-घर्मसद्भिः पितृभिः-अग्ने-अर्वाङ्-आयाहि) कल्याणी विद्या येषां तैः सत्यैः सत्सु विद्यमानेषु भवैर्व्याप्तैः कव्यैः-सूर्यान्तभवैः “असौ वा आदित्यः कविः” [श०६।७।२।४] घर्मसद्भिः-अहः सद्भिर्मध्यन्दिनं प्राप्नुवद्भिः “तप्त इव वै घर्मः” [श०१४।३।१।३३] किरणैः सहाग्ने-आयाह्यत्र यज्ञे वृष्टिनिमित्तमायाहि प्राप्नुहि ॥९॥